Sanatan Gyan
सनातन ज्ञानSanatan Gyan

अयोध्या काण्ड, सर्ग ९०Ayodhya kanda, sarga 90

अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ९०Sarga 90
१. भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: ।
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥ २.९०.१
२. पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: ।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२
३. तत: सन्दर्शने तस्य भरद्वाजस्य राघव: ।
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३
४. ऺवसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।
सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ २.९०.४
५. वसिष्ठसाहचर्य्यादिति भाव: ॥ २.९०.५
६. ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥ २.९०.६
७. अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७
८. वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।
शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८
९. तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: ।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९
१०. किमिहागमने कार्य्यं तव राज्यं प्रशासत: ।
एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥ २.९०.१०
११. सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११
१२. नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: ।
वनवासी भवेतीह समा: किल चतुर्दश ॥ २.९०.१२
१३. कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३
१४. एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह ।
पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥ २.९०.१४
१५. हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५
१६. न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६
१७. अहं तु तं नरव्याघ्रमुपयात: प्रसादक: ।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७
१८. त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।
शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥ २.९०.१८
१९. वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: ।
उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥ २.९०.१९
२०. त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२०
२१. जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति ।
अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१
२२. जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।
असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२
२३. श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: ।
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३
२४. ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: ।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥ २.९०.२४ ॥