अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ९Sarga 9
१. एवमुक्ता तु कैकेयी कोपेन ज्वलितानना ।
दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत्
२. अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।
यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये
३. इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन
४. एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्
५. हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्
६. किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि
७. मयोच्यमानं यदि ते श्रोतुं च्छ्न्दो विलासिनि ।
श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम्
८. श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि ।
किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्
९. कथय त्वं ममोपायं केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन
१०. एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्
११. तव दैवासुरे युद्धे सहराजर्षिभिः पतिः ।
अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्
१२. दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति ।
वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः
१३. स शम्बर इति ख्यातः शतमायो महासुरः ।
ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः
१४. तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् ।
रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः
१५. तत्राकरोन्महायुद्धं राजा दशरथ स्तदा ।
असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः
१६. अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।
तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया
१७. तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।
सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ
१८. गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना ।
अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा
१९. कथैषा तव तु स्नेहान्मनसा धार्यते मया ।
रामाभिषेकसंभारान्निगृह्य विनिवर्तय
२०. तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।
प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश
२१. चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् ।
प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति
२२. क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते ।
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी
२३. मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः ।
रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा
२४. दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
त्वत्कृते स महाराजो विशेदपि हुताशनम्
२५. न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्।
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्
२६. न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः
२७. मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।
दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः
२८. यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् ।
तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत्
२९. यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।
व्यवस्थाप्य महाराजं तमिमं वृणुया वरम्
३०. रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।
भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ
३१. चतुर्दश हि वर्षाणि रामे प्रव्राजिते वन्म् ।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः
३२. रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।
एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि
३३. एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।
भरतश्च हतामित्रस्तव राजा भविष्यति
३४. येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति
३५. सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।
प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा
३६. रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया
३७. हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।
कैकेयी विस्मयं प्राप्ता परं परमदर्शना
३८. कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ह्ठभिधायिनीम् ।
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये
३९. त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी
४०. नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।
सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः
४१. त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।
उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम्
४२. अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।
परिपूर्णं तु जघनं सुपीनौ च पयोधरौ
४३. विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे ।
जघनं तव निर्घुष्टं रशनादामशोभितम्
४४. जङघे भ्^इशमुपन्यस्ते पादौ चाप्यायतावुभौ ।
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।
अग्रतो मम गच्छन्ती राजहंसेव भाससे
४५. आसन्याः शम्बरे मायाः सहस्रमसुराधिपे
४६. सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।
तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम्
४७. मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।
अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्
४८. अभिषिक्ते च भरते राघवे च वनं गते ।
जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे
४९. लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।
मुखे च तिलकं चित्रं जातरूपमयं शुभम्
५०. कारयिष्यामि ते कुब्जे शुभान्यभरणानि च।
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि
५१. चंद्रमाह्वयमानेन मुखेनाप्रतिमानना।
गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने
५२. तवापि कुब्जायाः सर्वाभरणभूषिताः ।
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम
५३. इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
शयानां शयने शुभ्रे वेद्यामग्निशिखामिव
५४. गतोदके सेतुबन्दो न कल्याणि विधीयते ।
उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय
५५. तथा प्रोत्साहिता देवी गता मन्थरया सह ।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता
५६. अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।
अवमुच्य वराराणि शुभान्याभरणानि च
५७. ततो हेमोपमा तत्र कुब्जावाक्यवशंगता ।
संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्
५८. इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि ।
वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम्
५९. न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
६०. अथो पुनस्तां महिषीं महीक्षितो ।
वचोभिरत्यर्थ महापराक्रमैः ।
उवाच कुब्जा भरतस्य मातरं ।
हितं वचो राममुपेत्य चाहितम्
६१. प्रपत्स्यते राज्यमिदं हि राघवो ।
यदि ध्रुवं त्वं स सुता च तप्स्यसे ।
अतो हि कल्याणि यतस्व तत्तथा ।
यथा सुतस्ते भरतोऽभिषेक्ष्यते
६२. तथातिविद्धा महिषि तु कुब्जया ।
समाहता वागिषुभिर्मुहुर्मुहुः ।
विधाय हस्तौ हृदयेऽतिविस्मिता ।
श्शंस कुब्जां कुपिता पुनः पुनः
६३. यमस्य वा मां विषयं गतामितो ।
निशाम्य कुब्जे प्रतिवेदयिष्यसि ।
वनं गते वा सुचिराय राघवे ।
समृद्धकामो भरतो भविष्यति
६४. अहं हि वै नास्तरणानि न स्रजो ।
न चन्दनं नाञ्जनपानभोजनम् ।
न किंचिदिच्छामि न चेह जीवितं ।
न चेदितो गच्छति राघवो वनम्
६५. अथैतदुक्त्वा वचनं सुदारुणं ।
न्धाय सर्वाभरणानि भामिनी ।
असंवृतामास्तरणेन मेदिनीं ।
तदाधिशिश्ये पतितेव किन्नरी
६६. उदीर्णसंरम्भतमोवृतानना ।
तदावमुक्तोत्तममूल्यभूषणा ।
नरेन्द्रपत्नी विमना बभूव सा ।
तमोवृता द्यौरिव मग्नतारका