अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ७१Sarga 71
१. स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम्
२. ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।
शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः
३. एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।
शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम्
४. सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।
अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति
५. सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।
उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम्
६. वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।
यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा
७. शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम्
८. राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।
भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात्
९. भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।
उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे
१०. स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।
सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम्
११. तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।
वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः
१२. तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः
१३. सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।
अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ
१४. वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।
अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः
१५. हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।
ततार च नर व्याघ्रः लौहित्ये स कपीवतीम्
१६. एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।
कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा
१७. भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।
वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये
१८. अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।
ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि
१९. अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।
एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी
२०. अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।
यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः
२१. भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।
अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान्
२२. समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।
उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः
२३. समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।
तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः
२४. अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।
न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः
२५. निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च
२६. जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।
तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः
२७. स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।
नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम्
२८. सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।
चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः
२९. प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।
भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः
३०. किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।
अनिष्टानि च पापानि पश्यामि विविधानि च
३१. निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।
सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु
३२. तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।
विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः
३३. भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः
३४. द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।
स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम्
३५. सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।
किमहम् त्वरयानीतः कारणेन विनानघ
३६. अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।
श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने
३७. आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।
सम्मार्जनविहीनानि परुषाण्युपलक्षये
३८. असम्यतकवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मेदनेन च
३९. अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम्
४०. अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम्
४१. देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा
४२. दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः
४३. देवायतनचैत्येषुदीनाः पक्षिगणास्तथा
४४. मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।
सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे
४५. इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।
तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ
४६. ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।
रजो अरुण द्वार कपाट यन्त्राम् ।
दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।
दुह्खेन सम्पूर्णतरः बभूव
४७. बहूनि पश्यन् मनसो अप्रियाणि ।
यानि अन्न्यदा न अस्य पुरे बभूवुः ।
अवाक् शिरा दीन मना नहृष्टः ।
पितुर् महात्मा प्रविवेश वेश्म