Sanatan Gyan
सनातन ज्ञानSanatan Gyan

अयोध्या काण्ड, सर्ग ६७Ayodhya kanda, sarga 67

अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ६७Sarga 67
१. आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।
आयोध्यायामतितता सा व्यतीयाय शर्वरी
२. व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।
समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः
३. मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।
कात्ययनो गौतमः च जाबालिः च महा यशाः
४. एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।
वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम्
५. अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।
अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे
६. स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।
लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह
७. उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।
पुरे राज गृहे रम्ये मातामह निवेशने
८. इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।
अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात्
९. न अराजले जन पदे विद्युन् माली महा स्वनः ।
अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा
१०. न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।
न अराकके पितुः पुत्रः भार्या वा वर्तते वशे
११. अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।
इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके
१२. न अराजके जन पदे कारयन्ति सभाम् नराः ।
उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च
१३. न अराजके जन पदे यज्ञ शीला द्विजातयः ।
सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः
१४. न अराजके जनपदे महायज्ञेषु यज्वनः ।
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः
१५. न अराजके जन पदे प्रभूत नट नर्तकाः ।
उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः
१६. न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।
कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः
१७. न अराजके जनपदे उद्यानानि समागताः ।
सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः
१८. न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।
नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः
१९. न अराकजे जन पदे धनवन्तः सुरक्षिताः ।
शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः
२०. न अराजके जनपदे बद्दघण्टा विषाणीनः ।
आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः
२१. न अराजके जनपदे शरान् सम्ततमस्यताम् ।
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने
२२. न अराजके जन पदे वणिजो दूर गामिनः ।
गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः
२३. न अराजके जन पदे चरति एक चरः वशी ।
भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः
२४. न अराजके जन पदे योग क्षेमम् प्रवर्तते ।
न च अपि अराजके सेना शत्रून् विषहते युधि
२५. न अराजके जनपदे हृष्टैः परमवाजिभिः ।
नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः
२६. न अराजके जनपदे नराः शास्त्रविशारदाः ।
सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च
२७. न अराजके जनपदे माल्यमोदकदक्षिणाः ।
देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः
२८. न अराजके जनपदे चन्दनागुरुरूषिताः ।
राजपुत्रा विराजन्ते वसन्त इव शाखिनः
२९. यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।
अगोपाला यथा गावः तथा राष्ट्रम् अराजकम्
३०. ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।
तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः
३१. न अराजके जन पदे स्वकम् भवति कस्यचित् ।
मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम्
३२. येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।
ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः
३३. यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः
३४. राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम्
३५. यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।
विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः
३६. अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।
राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी
३७. जीवति अपि महा राजे तव एव वचनम् वयम् ।
न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः
३८. स नः समीक्ष्य द्विज वर्य वृत्तम् ।
नृपम् विना राज्यम् अरण्य भूतम् ।
कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।
त्वम् एव राजानम् इह अभिषिन्चय