Sanatan Gyan
सनातन ज्ञानSanatan Gyan

अयोध्या काण्ड, सर्ग ३Ayodhya kanda, sarga 3

अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ३Sarga 3
१. तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः
२. अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ
३. इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् ।
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्
४. चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्
५. राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।
शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः
६. वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम्
७. तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः
८. आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ।
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि
९. शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।
अहतानि च वासांसि रथं सर्वायुधान्यपि
१०. चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।
चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम्
११. शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ।
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च
१२. उपस्थापयत प्रातरग्न्यगारं महीपतेः ।
यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम्
१३. अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।
चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः
१४. प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् ।
द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत्
१५. सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः
१६. सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च
१७. आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।
सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः
१८. कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।
देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः
१९. उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् ।
दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः
२०. महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।
एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ
२१. चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्
२२. यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।
ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्
२३. रामः कृतात्मा भवता शीघ्रमानीयतामिति ।
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्
२४. रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।
अथ तत्र समासीनास्तदा दशरथं नृपम्
२५. प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।
म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः
२६. उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः
२७. प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् ।
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्
२८. दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् ।
चन्द्रकान्ताननं राममतीव प्रियदर्शनम्
२९. रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः
३०. न ततर्प समायान्तं पश्यमानो नराधिपः ।
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्
३१. पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।
स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः
३२. आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।
स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके
३३. नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः ।
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः
३४. गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।
तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं
३५. दिदेश राजा रुचिरं रामाय परमासनम् ।
तदासनवरं प्राप्य व्यदीपयत राघवः
३६. स्वयेव प्रभया मेरुमुदये विमलो रविः ।
तेन विभ्राजता तत्र सा सभाभिव्यरोचत
३७. विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।
तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम्
३८. अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः
३९. उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः
४०. उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।
यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः
४१. तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि
४२. गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः
४३. कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा
४४. अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।
कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून्
४५. तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।
तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः
४६. तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः
४७. त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च
४८. व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।
अथाभिवाद्य राजानं रथमारुह्य राघवः
४९. ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।
ते चापि पौरा नृपतेर्वचस्त ।
च्छ्रुत्वा तदा लाभमिवेष्टमाशु ।
नरेन्द्रमामन्त्र्य गृहाणि गत्वा ।
देवान् समानर्चुरतिप्रहृष्टाः