अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ११६Sarga 116
१. प्रतिप्रयाते भरते वसन् रामस्तपोवने ।
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २.११६.१॥
२. ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २.११६.२॥
३. नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।
अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ॥ २.११६.३॥
४. तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।
कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ॥ २.११६.४॥
५. न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।
दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ॥ २.११६.५॥
६. प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ॥ २.११६.६॥
७. कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।
प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २.११६.७॥
८. अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।
वेपमान इवोवाच रामं भूतदयापरम् ॥ २.११६.८॥
९. कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।
चलनं तात वैदेह्यास्तपस्विषु विशेषत: ॥ २.११६.९॥
१०. त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।
रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ॥ २.११६.१०॥
११. रावणावरज: कश्चित् खरो नामेह राक्षस: ।
उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २.११६.११॥
१२. धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २.११६.१२॥
१३. त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २.११६.१३॥
१४. दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ॥ २.११६.१४॥
१५. अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।
प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ॥ २.११६.१५॥
१६. तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।
रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ॥ २.११६.१६॥
१७. अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।
कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २.११६.१७॥
१८. तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।
गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २.११६.१८॥
१९. तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।
दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २.११६.१९॥
२०. बहुमूलफलं चित्रमविदूरादितो वनम् ।
पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ॥ २.११६.२०॥
२१. खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।
सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ॥ २.११६.२१॥
२२. सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।
समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ॥ २.११६.२२॥
२३. इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ॥ २.११६.२३॥
२४. अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।
स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ॥ २.११६.२४॥
२५. राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २.११६.२५॥
२६. आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।
राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ॥ २.११६.२६ ॥