Sanatan Gyan
सनातन ज्ञानSanatan Gyan

अयोध्या काण्ड, सर्ग ११३Ayodhya kanda, sarga 113

अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ११३Sarga 113
१. तत: शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ॥ २.११३.१॥
२. वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: ।
अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ॥ २.११३.२॥
३. मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३॥
४. पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४॥
५. अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ॥ २.११३.५॥
६. स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६॥
७. ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७॥
८. एवमुक्त: स तु ततो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ॥ २.११३.८॥
९. स याच्यमानो गुरुणा मया च दृढविक्रम: ।
राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९॥
१०. पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१०॥
११. एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११॥
१२. एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२॥
१३. एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: ।
पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३॥
१४. निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४॥
१५. एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।
भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५॥
१६. नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६॥
१७. अमृत: स महाबाहु: पिता दशरथस्तव ।
यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ॥ २.११३.१७॥
१८. तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: ।
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८॥
१९. तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: ।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ॥ २.११३.१९॥
२०. यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२०॥
२१. ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१॥
२२. तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: ।
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ॥ २.११३.२२॥
२३. शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३॥
२४. अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।
भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ॥ २.११३.२४॥
२५. सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥