अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग १०३Sarga 103
१. वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षित: ॥ २.१०३.१॥
२. राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२॥
३. कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।
सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ॥ २.१०३.३॥
४. इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।
वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ॥ २.१०३.४॥
५. इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: ।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५॥
६. जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: ।
भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ॥ २.१०३.६॥
७. अद्यायमपि ते पुत्र: क्लेशानामतथोचित: ।
नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७॥
८. दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८॥
९. तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।
उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ॥ २.१०३.९॥
१०. इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: ।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१०॥
११. तस्य देवसमानस्य पार्थिवस्य महात्मन: ।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११॥
१२. चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: ।
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ॥ २.१०३.१२॥
१३. अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा ।
यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३॥
१४. रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।
कथं दु:खेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४॥
१५. श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।
यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०३.१५॥
१६. एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६॥
१७. सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: ।
आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ॥ २.१०३.१७॥
१८. तासां राम: समुत्थाय जग्राह चरणान् शुभान् ।
मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ॥ २.१०३.१८॥
१९. ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: ।
प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ॥ २.१०३.१९॥
२०. सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: ।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२०॥
२१. यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: ।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१॥
२२. सीतापि चरणांस्तासामुपसंगृह्य दु:खिता ।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ॥ २.१०३.२२॥
२३. तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा ।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३॥
२४. विदेहराजस्य सुता स्नुषा दशरथस्य च ।
रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४॥
२५. पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ॥ २.१०३.२५॥
२६. मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भव: ॥ २.१०३.२६॥
२७. ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: ।
पादावासाद्य जग्राह वसिष्ठस्य च राघव: ॥ २.१०३.२७॥
२८. पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: ।
प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ॥ २.१०३.२८॥
२९. ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९॥
३०. उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ॥ २.१०३.३०॥
३१. किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१॥
३२. स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: ।
वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ॥ २.१०३.३२ ॥